वांछित मन्त्र चुनें
आर्चिक को चुनें

वि꣢श्वाः꣣ पृ꣡त꣢ना अभि꣣भू꣡त꣢रं꣣ न꣡रः꣢ स꣣जू꣡स्त꣢तक्षु꣣रि꣡न्द्रं꣢ जज꣣नु꣡श्च꣢ रा꣣ज꣡से꣢ । क्र꣢त्वे꣣ व꣡रे꣢ स्थे꣢म꣢न्या꣣मु꣡री꣢मु꣣तो꣡ग्रमोजि꣢꣯ष्ठं त꣣र꣡सं꣢ तर꣣स्वि꣡न꣢म् ॥३७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥३७०॥

मन्त्र उच्चारण
पद पाठ

वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । अ꣣भिभू꣡त꣢रम् । अ꣣भि । भू꣡त꣢꣯रम् । न꣡रः꣢꣯ । स꣣जूः꣢ । स꣣ । जूः꣢ । त꣣तक्षुः । इ꣡न्द्र꣢꣯म् । ज꣣जनुः꣢ । च꣣ । राज꣡से꣢ । क्र꣡त्वे꣢꣯ । व꣡रे꣢꣯ । स्थे꣣म꣡नि꣢ । आ꣣मु꣡री꣢म् । आ꣣ । मु꣡री꣢꣯म् । उ꣣त꣢ । उ꣣ग्र꣢म् । ओ꣡जि꣢꣯ष्ठम् । त꣣र꣡स꣢म् । त꣣रस्वि꣡न꣢म् ॥३७०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 370 | (कौथोम) 4 » 2 » 4 » 1 | (रानायाणीय) 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में यह वर्णित है कि कैसे परमेश्वर और वीरपुरुष को लोग सम्राट् बनाते हैं।

पदार्थान्वयभाषाः -

(विश्वाः) सब (पृतनाः) शत्रुसेनाओं को (अभिभूतरम्) अतिशय पराजित करने वाले, (वरे) उत्कृष्ट (स्थेमनि) स्थिरता में विद्यमान, (आ मुरीम्) चारों ओर प्रलयकर्ता अथवा विपदाओं के संहारक (उत) और (उग्रम्) प्रचण्ड, (ओजिष्ठम्) सबसे बढ़कर ओजस्वी, (तरसम्) तरने और तराने में समर्थ, (तरस्विनम्) अति बलवान् (इन्द्रम्) परमेश्वर वा वीरपुरुष को (नरः) प्रभुभक्त व राजभक्त लोग (सजूः) इकट्ठे मिलकर (ततक्षुः) स्तुतियों व उत्साह-वचनों से तीक्ष्ण करते हैं (च) और (राजसे) हृदय-साम्राज्य में वा राष्ट्र में राज्य करने के लिए और (क्रत्वे) कर्मयोग की प्रेरणा देने के लिए अथवा कर्म करने के लिए (जजनुः) सम्राट् के पद पर अभिषिक्त करते हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है। ‘तरसं, तरस्विनम्’ में छेकानुप्रास है ॥१॥

भावार्थभाषाः -

जैसे काम, क्रोध, लोभ, मोह, दुःख, दौर्मनस्य आदि की सेनाओं के पराजेता, अविचल, प्रलयकर्ता, अति ओजस्वी, तारक, बलिष्ठ परमात्मा को उपासकजन अपना हृदय-सम्राट् बनाते हैं, वैसे ही प्रजाजन शत्रुविजयी, दृढ़संकल्पवान् विपत्तिविदारक, संकटों से तरने-तराने में समर्थ शूरवीर मनुष्य को उत्साहित करके राजा के पद पर अभिषिक्त करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशं परमेश्वरं वीरपुरुषं च जनाः सम्राजं जनयन्तीत्याह।

पदार्थान्वयभाषाः -

(विश्वाः) समस्ताः (पृतनाः) शत्रुसेनाः (अभिभूतरम्) अतिशयेन अभिभवितारम्, (वरे) उत्कृष्टे (स्थेमनि) स्थैर्ये विद्यमानम्। स्थिरस्य भावः स्थेमा, तस्मिन्। (मुरीम्) समन्ततः प्रलयकर्तारं, विपदां मारयितारं वा, (उत) अपि च (उग्रम्) प्रचण्डम्, (ओजिष्ठम्) अतिशयेन ओजस्विनम्, (तरसम्) तरणसमर्थम्, तारणसमर्थं वा। अत्र ‘अत्यविचमितमि० उ० ३।११७’ इत्यत्र तॄ प्लवनसन्तरणयोः धातोः पाठाभावेऽपि बाहुलकात् असच् प्रत्ययः२। (तरस्विनम्) अतिशयेन बलवन्तम्। तरस् इति बलनाम। निघं० २।९। (इन्द्रम्) परमेश्वरं वीरपुरुषं वा (नरः) उपासका जनाः प्रजाजना वा (सजूः) सजुषः परस्परं संगताः सन्तः। अत्र ‘सुपां सुलुक्० ७।१।३९’ इति जसः सुः। (ततक्षुः) स्तुतिभिरुत्साहकैर्वचनैश्च तीक्ष्णीकुर्वन्ति। (राजसे) हृदयसाम्राज्ये राष्ट्रे वा राज्यं कर्तुम् (क्रत्वे) कर्मयोगाय च। ‘जसादिषु छन्दसि वा वचनम्। अ० ७।३।१८’ वा० इति गुणविकल्पनाद् गुणाभावे यणि रूपम्। (जजनुः च) जनयन्ति च, सम्राट्पदेऽभिषिञ्चन्तीत्यर्थः ॥१॥ अत्र श्लेषालङ्कारः। ‘तरसं-तरस्विनम्’ इत्यत्र छेकानुप्रासः ॥१॥

भावार्थभाषाः -

यथा कामक्रोधलोभमोहदुःखदौर्मनस्यादिसैन्यानामभिभवितारमविचलं प्रलयकर्तारमोजिष्ठं तारकं बलिष्ठं परमात्मानमुपासका जनाः स्वहृदयसम्राजं कुर्वन्ति, तथैव प्रजाजनाः शत्रूणां पराजेतारं दृढसंकल्पं विपद्विदर्तारं संकटेभ्यस्तरणतारणसमर्थं शूरं नरं समुत्साह्य राजपदेऽभिषिञ्चन्तु ॥१॥

टिप्पणी: १. ऋ० ८।९७।१०, अथ० २०।५४।१ उभयत्र ‘नरः’ इत्यत्र ‘नरं’, उत्तरार्धे च ‘क्रत्वावरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम्’ इति पाठः। साम० ९३०। २. द्रष्टव्या, उणादिकोषस्य उक्तसूत्रे दयानन्दटीका—‘बाहुलकात् तरतीति तरसम् मांसं वा’ इति।